|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.42. अध्यायः 042
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति युधिष्ठिराद्यायुधानां पृथक्पृथङ्निर्देशेन तत्तत्स्वामिकत्वकथनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-42-0x(3182)(30174)
अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत्।
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ॥ 4-42-1(30175)
अर्जुन उवाच। 4-42-2x(3183)
अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम्।
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ॥ 4-42-2(30176)
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम्।
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ॥ 4-42-3(30177)
एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥ 4-42-4(30178)
येन देवासुरान्पार्थः सर्वान्विषहते रणे।
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ 4-42-5(30179)
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ॥ 4-42-6(30180)
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम्।
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् ।
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ॥ 4-42-7(30181)
एवंवीर्यं महावेतेतच्च धनुरुत्तमम् ।
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ॥ 4-42-8(30182)
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः ।
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ॥ 4-42-9(30183)
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ 4-42-10(30184)
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः।
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ॥ 4-42-11(30185)
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम्।
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ॥ 4-42-12(30186)
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ॥ 4-42-13(30187)
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः।
एतेन सदृशं चित्रं धनुरेतद्यवीयसः।
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ॥ 4-42-14(30188)
विपाठा भीमसेनस्य गिरीणामपि दारणाः ।
सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः ।
भीमेन प्रहिता ह्येते वारणानां निवारणाः ॥ 4-42-15(30189)
सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः ।
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ॥ 4-42-16(30190)
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान्।
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ॥ 4-42-17(30191)
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः।
पार्थस्यायं महाघोरः सर्वभारसहो महान् ॥ 4-42-18(30192)
यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः।
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः । 4-42-19(30193)
वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः ।
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ॥ 4-42-20(30194)
नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः।
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ॥ 4-42-21(30195)
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः ।
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ॥ 4-42-22(30196)
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ॥
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ॥ 4-42-23(30197)
यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः।
सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक ।
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ॥ 4-42-24(30198)
वैशम्पायन उवाच। 4-42-24x(3184)
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः ।
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ॥ ॥ 4-42-25(30199)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|